|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.91. अध्यायः 091
Mahabharata - Vana Parva - Chapter Topics
युधिष्ठिरेण लोमशादिभिः सह तीर्थसेवनाय प्रस्थानम् ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text
वैशम्पायन उवाच। 3-91-0x(2004)(19766)
ततः प्रयान्तं कौन्तेयं ब्राह्मणा वनवासिनः।
अभिगम्य तदा राजन्निदं वचनमब्रुवन् ॥ 3-91-1(19767)
राजंस्तीर्थानि गन्तासि पुण्यानि भ्रातृभिः सह।
देवर्षिणा च सहितो लोमशेन महात्मना ॥ 3-91-2(19768)
अस्मानपि महाराज नेतुमर्हसि पाण्डव।
अस्माभिर्हि न शक्यानि त्वदृते तानि कौरव ॥ 3-91-3(19769)
श्वापरदैरुपसृष्टानि दुर्गाणि विषमाणि च।
अगम्यानि नरैरल्पैस्तीर्थानि मनुजेश्वर ॥ 3-91-4(19770)
भवतो भ्रातरः शूरा धनुर्धरवराः सदा।
भवद्भिः पालिताः शूरैर्गच्छामो वयमप्युत ॥ 3-91-5(19771)
भवत्प्रसादाद्धि वयं प्राप्नुयामः सुखं फलम्।
तीर्थानां पृथिवीपाल वनानां च विशांपते ॥ 3-91-6(19772)
तव वीर्यपरित्राताः शुद्धास्तीर्थपरिप्लताः।
भवेम धूतपाप्मानस्तीर्थसंदर्शनान्नृप ॥ 3-91-7(19773)
भवानपि नरेन्द्रस्य कार्तवीर्यस्य भारत।
अष्टकस्य च राजर्षेर्लोमपादस् चैव ह ॥ 3-91-8(19774)
भरतस्य च वीरस्य सार्वभौमस्य पार्तिव।
ध्रुवं प्राप्स्यति दुष्प्रापाँल्लोकांस्तीर्थपरिप्लुतः ॥ 3-91-9(19775)
प्रभासादीनि तीर्थानि महेन्द्रादींश्च पर्वतान्।
गङ्गाद्याः सरितश्चैव प्लक्षादींश्च पर्वतान् ॥ 3-91-10(19776)
त्वया सह महीपाल द्रष्टुमिच्छामहे वयम्।
`भवद्भिः पालिताः शूरैस्तीर्थान्यायतनानि च' ॥ 3-91-11(19777)
यदि ते ब्राह्मणेष्वस्ति काचित्प्रीतिर्जनाधिप।
कुरुक्षिप्रं वचोऽस्माकं ततः श्रेयोऽभिपत्स्यसे ॥ 3-91-12(19778)
तीर्तानि हि महाबाहो तपोविघ्नकरैः सदा।
अनुकीर्णानि रक्षोभिस्तेभ्यो नस्त्रातुमर्हसि ॥ 3-91-13(19779)
तीर्थान्युक्तानि धौम्येन नारदेन च धीमता।
यान्युवाच च देवर्षिर्लोमशः सुमहातपाः ॥ 3-91-14(19780)
विधिवत्तानि सर्वाणि पर्यटस्व नराधिप।
धूतपाप्मा सहास्माभिर्लोमशेनाबिपालितः ॥ 3-91-15(19781)
स राजा पूज्यमानस्तैर्हर्षादश्रुपरिप्लुतः।
भीमसेनादिभिर्वीरैर्भ्रातृभिः परिवारितः ॥ 3-91-16(19782)
बाढमित्यब्रवीत्सर्वांस्तानृषीन्पाण्डवर्षभः।
लोमशं समनुज्ञाप्य धौम्यं चैव पुरोहितम् ॥ 3-91-17(19783)
ततः स पाण्डवश्रेष्ठो भ्रातृभिः सहितो वशी।
द्रौपद्या चानवद्याङ्ग्या गमनाय मनो दधे ॥ 3-91-18(19784)
अथ व्यासो महाभागस्तथा पर्वतनारदौ।
दाम्यके पाण्डवंद्रष्टुं समाजग्मुर्मनीषिणः ॥ 3-91-19(19785)
तेषां युधिष्ठिरो राजा पूजां चक्रे यथाविधि।
सत्कृतास्ते महाभागा युधिष्ठिरमथाब्रुवन् ॥ 3-91-20(19786)
युधिष्ठिरयमौ भीम मनसा कुरुतार्जवम्।
मनसा कृतशौचा वै शद्धास्तीर्थानि यास्यथ ॥ 3-91-21(19787)
शरीरनियमं प्राहुर्ब्राह्मणा मानुषं व्रतम्।
मनोविशुद्धां बुद्धिं च दैवमाहुर्व्रतं द्विजाः ॥ 3-91-22(19788)
मनो ह्यदुष्टं शौचाय पर्याप्तं वै नराधिप।
मैत्रीं बुद्धिं समास्थाय शुद्धास्तीर्थानि गच्छत ॥ 3-91-23(19789)
ते यूयं मानसैः शुद्धाः शरीरनियमव्रतैः।
दैवं व्रतं समास्थाय यथोक्तं फलमाप्स्यथ ॥ 3-91-24(19790)
ते तथेति प्रतिज्ञाय कृष्णया सह पाण्डवाः।
कृतस्वस्त्ययनाः सर्वे मुनिभिर्देवमानुषैः ॥ 3-91-25(19791)
लोमशस्योपसंगृह्य पादौ द्वैपायनस् च।
नारदस्य च राजेन्द्र देवर्षेः पर्वतस्य च ॥ 3-91-26(19792)
धौम्येन सहिता वीरास्तथा तैर्वनवासिभिः।
मार्गशीर्ष्यामतीतायां पुष्येण प्रययुस्ततः ॥ 3-91-27(19793)
कठिनानि समादाय चीराजिनजटाधराः।
अभेद्यैः कवचैर्युक्तास्तीर्थान्यन्वचरंस्ततः ॥ 3-91-28(19794)
इन्द्रसेनादिभिर्भृत्यै रथैः परिचतुर्दशैः।
महानसव्यापृतैश्च तथाऽन्यैः परिचारकैः ॥ 3-91-29(19795)
सायुधा बद्धनिस्त्रिंशास्तूणवन्तः समार्गणाः।
प्राङ्युखाः प्रययुर्वीराः पाण्डवा जनमेजय ॥ 3-91-30(19796)
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि एकनवतितमोऽध्यायः ॥ 91 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-91-7 तीर्थसंस्पर्शनान्नृपेति क. पाठः ॥ 3-91-13 अनुकीर्णानि व्याप्तानि। नोऽस्मान् ॥ 3-91-21 आर्जवमृजुबुद्धिं श्रद्धामित्यर्थः ॥ 3-91-23 मनो ह्यदुष्टं शूराणामिति क. पाठः ॥ 3-91-24 फलमाप्नुतेति क. पाठः ॥ 3-91-28 कठिनानि करण्डानि ॥ 3-91-29 परिचतुर्दशैः पञ्चदशाभिः। चतुर्दशभ्यः परि उपरीति व्युत्पत्तेः। संख्ययाव्ययासन्नेति समासः। बहुव्रीहौ संख्येये डजिति डच् ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|